Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४७

अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।
 तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥१॥
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।
 कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥२॥
अश्विना मधुमत्तमं पातं सोममृतावृधा ।
 अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥३॥
त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।
 कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥४॥
याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
 ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा ॥५॥
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना ।
 रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥६॥
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।
 अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥७॥
अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
 इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥८॥
तेन नासत्या गतं रथेन सूर्यत्वचा ।
 येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥९॥
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।
 शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥१०॥

No comments:

Post a Comment