Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१३

सुसमिद्धो न आ वह देवाँ अग्ने हविष्मते ।
 होतः पावक यक्षि च ॥१॥
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
 अद्या कृणुहि वीतये ॥२॥
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
 मधुजिह्वं हविष्कृतम् ॥३॥
अग्ने सुखतमे रथे देवाँ ईळित आ वह ।
 असि होता मनुर्हितः ॥४॥
स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
 यत्रामृतस्य चक्षणम् ॥५॥
वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः ।
 अद्या नूनं च यष्टवे ॥६॥
नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये ।
 इदं नो बर्हिरासदे ॥७॥
ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
 यज्ञं नो यक्षतामिमम् ॥८॥
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
 बर्हिः सीदन्त्वस्रिधः ॥९॥
इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये ।
 अस्माकमस्तु केवलः ॥१०॥
अव सृजा वनस्पते देव देवेभ्यो हविः ।
 प्र दातुरस्तु चेतनम् ॥११॥
स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
 तत्र देवाँ उप ह्वये ॥१२॥

No comments:

Post a Comment