Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१८

सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
 कक्षीवन्तं य औशिजः ॥१॥
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।
 स नः सिषक्तु यस्तुरः ॥२॥
मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
 रक्षा णो ब्रह्मणस्पते ॥३॥
स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ।
 सोमो हिनोति मर्त्यम् ॥४॥
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ।
 दक्षिणा पात्वंहसः ॥५॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
 सनिं मेधामयासिषम् ॥६॥
यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
 स धीनां योगमिन्वति ॥७॥
आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
 होत्रा देवेषु गच्छति ॥८॥
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।
 दिवो न सद्ममखसम् ॥९॥

No comments:

Post a Comment