Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.५०

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
 दृशे विश्वाय सूर्यम् ॥१॥
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
 सूराय विश्वचक्षसे ॥२॥
अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु ।
 भ्राजन्तो अग्नयो यथा ॥३॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
 विश्वमा भासि रोचनम् ॥४॥
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
 प्रत्यङ्विश्वं स्वर्दृशे ॥५॥
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
 त्वं वरुण पश्यसि ॥६॥
वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः ।
 पश्यञ्जन्मानि सूर्य ॥७॥
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
 शोचिष्केशं विचक्षण ॥८॥
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
 ताभिर्याति स्वयुक्तिभिः ॥९॥
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
 देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥१०॥
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
 हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥११॥
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
 अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥१२॥
उदगादयमादित्यो विश्वेन सहसा सह ।
 द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥१३॥

No comments:

Post a Comment