Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.६

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
 रोचन्ते रोचना दिवि ॥१॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
 शोणा धृष्णू नृवाहसा ॥२॥
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
 समुषद्भिरजायथाः ॥३॥
आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
 दधाना नाम यज्ञियम् ॥४॥
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
 अविन्द उस्रिया अनु ॥५॥
देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः ।
 महामनूषत श्रुतम् ॥६॥
इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
 मन्दू समानवर्चसा ॥७॥
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
 गणैरिन्द्रस्य काम्यैः ॥८॥
अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
 समस्मिन्नृञ्जते गिरः ॥९॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
 इन्द्रं महो वा रजसः ॥१०॥

No comments:

Post a Comment