Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२६

वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते
 सेमं नो अध्वरं यज ॥१॥
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः
 अग्ने दिवित्मता वचः ॥२॥
हि ष्मा सूनवे पितापिर्यजत्यापये
 सखा सख्ये वरेण्यः ॥३॥
नो बर्ही रिशादसो वरुणो मित्रो अर्यमा
 सीदन्तु मनुषो यथा ॥४॥
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य
 इमा षु श्रुधी गिरः ॥५॥
यच्चिद्धि शश्वता तना देवंदेवं यजामहे
 त्वे इद्धूयते हविः ॥६॥
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः
 प्रियाः स्वग्नयो वयम् ॥७॥
स्वग्नयो हि वार्यं देवासो दधिरे नः
 स्वग्नयो मनामहे ॥८॥
अथा उभयेषाममृत मर्त्यानाम्
 मिथः सन्तु प्रशस्तयः ॥९॥
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः

 चनो धाः सहसो यहो ॥१०॥

No comments:

Post a Comment