Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.८

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
 वर्षिष्ठमूतये भर ॥१॥
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
 त्वोतासो न्यर्वता ॥२॥
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
 जयेम सं युधि स्पृधः ॥३॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
 सासह्याम पृतन्यतः ॥४॥
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
 द्यौर्न प्रथिना शवः ॥५॥
समोहे वा य आशत नरस्तोकस्य सनितौ ।
 विप्रासो वा धियायवः ॥६॥
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
 उर्वीरापो न काकुदः ॥७॥
एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
 पक्वा शाखा न दाशुषे ॥८॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ।
 सद्यश्चित्सन्ति दाशुषे ॥९॥
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
 इन्द्राय सोमपीतये ॥१०॥

No comments:

Post a Comment