Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४१

यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
 नू चित्स दभ्यते जनः ॥१॥
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
 अरिष्टः सर्व एधते ॥२॥
वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
 नयन्ति दुरिता तिरः ॥३॥
सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
 नात्रावखादो अस्ति वः ॥४॥
यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
 प्र वः स धीतये नशत् ॥५॥
स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना ।
 अच्छा गच्छत्यस्तृतः ॥६॥
कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः ।
 महि प्सरो वरुणस्य ॥७॥
मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् ।
 सुम्नैरिद्व आ विवासे ॥८॥
चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
 न दुरुक्ताय स्पृहयेत् ॥९॥

No comments:

Post a Comment