Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.३९

प्र यदित्था परावतः शोचिर्न मानमस्यथ ।
 कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥१॥
स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे ।
 युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥२॥
परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु ।
 वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥३॥
नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः ।
 युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥४॥
प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
 प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥५॥
उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः ।
 आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥६॥
आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
 गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥७॥
युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
 वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥८॥
असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
 असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥९॥
असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः ।
 ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥१०॥

No comments:

Post a Comment