Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२७

अश्वं त्वा वारवन्तं वन्दध्या अग्निं नमोभिः
 सम्राजन्तमध्वराणाम् ॥१॥
घा नः सूनुः शवसा पृथुप्रगामा सुशेवः
 मीढ्वाँ अस्माकं बभूयात् ॥२॥
नो दूराच्चासाच्च नि मर्त्यादघायोः
 पाहि सदमिद्विश्वायुः ॥३॥
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम्
 अग्ने देवेषु प्र वोचः ॥४॥
नो भज परमेष्वा वाजेषु मध्यमेषु
 शिक्षा वस्वो अन्तमस्य ॥५॥
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक
 सद्यो दाशुषे क्षरसि ॥६॥
यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः
  यन्ता शश्वतीरिषः ॥७॥
नकिरस्य सहन्त्य पर्येता कयस्य चित्
 वाजो अस्ति श्रवाय्यः ॥८॥
वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता
 विप्रेभिरस्तु सनिता ॥९॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय
 स्तोमं रुद्राय दृशीकम् ॥१०॥
नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः
 धिये वाजाय हिन्वतु ॥११॥
रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः
 उक्थैरग्निर्बृहद्भानुः ॥१२॥
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः

 यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥१३॥

No comments:

Post a Comment