Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२

वायवा याहि दर्शतेमे सोमा अरंकृताः ।
 तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
 सुतसोमा अहर्विदः ॥२॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
 उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
 इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
 तावा यातमुप द्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
 मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
 धियं घृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
 क्रतुं बृहन्तमाशाथे ॥८॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
 दक्षं दधाते अपसम् ॥९॥

No comments:

Post a Comment