Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४०

उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
 उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥१॥
त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
 सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥२॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
 अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥३॥
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
 तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥४॥
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
 यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥५॥
तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।
 इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥६॥
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।
 प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥७॥
उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।
 नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥८॥

No comments:

Post a Comment